Thursday, August 4, 2011

महर्षि पतञ्जलि कृत् महाभाष्य- पस्पशाह्निक

अथ शब्दानुशासनम् ।
अथ इति अयम् शब्दः अधिकारार्थः प्रयुज्यते ।

शब्दानुशासनम् शास्त्रम् अधिकृतम् वेदितव्यम् ।

केषाम् शब्दानाम् ।

लौकिकानाम् वैदिकानाम् च ।

तत्र लौकिकाः तावत् गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति ।

वैदिकाः खलु अपि - शम् नः देवीः अभिष्टये ।

इषे त्वा ऊर्जे त्वा ।

अग्निम् ईल्̥ए पुरोहितम् ।

अग्ने अयाहि वीतये इति ।

अथ गौः इति अत्र कः शब्दः ।

किम् यत् तत् सास्नालाङ्गूलककुदखुरविषाणि अर्थरूपम् सः शब्दः ।

न इति आह ।

द्रव्यम् नाम तत् ।

यत् तर्हि तत् इङ्गितम् चेष्टितम् निमिषितम् सः शब्दः ।

न इति आह ।

क्रिया नाम सा ।

यत् तर्हि तत् शुक्लः नीलः कृष्णः कपिलः कपोतः इति सः शब्दः ।

न इति आह ।

गुणः नाम सः ।

यत् तर्हि तत् भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतम् सः शब्दः ।

न इति आह ।

आकृतिः नाम सा ।

कः तर्हि शब्दः ।

येन उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति सः शब्दः ।

अथ वा प्रतीतपदार्थकः लोके ध्वनिः शब्दः इति उच्यते ।

तत् यथा शब्दम् कुरु मा शब्दम् कार्षीः शब्दकारी अयम् माणवकः इति ।

ध्वनिम् कुर्वन् एवम् उच्यते ।

तस्मात् ध्वनिः शब्दः ।

कानि पुनः शब्दानुशासनस्य प्रयोजनानि ।

रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् ।

रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् ।

लोपागमवर्णविकारज्ञः हि सम्यक् वेदान् परिपालयिष्यति ।

ऊहः खलु अपि. न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः. ते च अवश्यम् यज्ञगतेन यथायथम् विपरिणमयितव्याः. तान् न अवैयाकरणः शक्नोति यथायथम् विपरिणमयितुम्. तस्मात् अध्येयम् व्याकरणम् ।

आगमः खलु अपि ।

ब्राह्मणेन निष्कारणः धर्मः षडङ्गः वेदः अध्येयः ज्ञेयः इति ।

प्रधानम् च षट्सु अङ्गेषु व्याकरणम् ।

प्रधाने च कृतः यत्नः फलवान् भवति ।

लघ्वर्थम् च अध्येयम् व्याकरणम्. ब्राह्मणेन अवश्यम् शब्दाः ज्ञेयाः इति ।

न च अन्तरेण व्याकरणम् लघुना उपायेन शब्दाः शक्याः ज्ञातुम् ।

असन्देहार्थम् च अध्येयम् व्याकरणम् ।

याज्ञिकाः पठन्ति ।

स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति ।

तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती ।

ताम् न अवैयाकरणः स्वरतः अध्यवस्यति ।

यदि पूर्वपदप्रकृतिस्वरत्वम् ततः बहुव्रीहिः. अथ अन्तोदात्तत्वम् ततः तत्पुरुषः इति ।

इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि ।

ते असुराः , दुष्टः शब्दः , यत् अधीतम् , यः तु प्रयुङ्क्ते , अविद्वांसः , विभक्तिम् कुर्वन्ति , यः वै इमाम् , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीम् , दशम्याम् पुत्रस्य , सुदेवः असि वरुण इति ।

ते असुराः ।

ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः ।

तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै ।

म्लेच्छः ह वै एषः यत् अपशब्दः ।

म्लेच्छाः मा भूम इति अध्येयम् व्याकरणम् ।

ते असुराः

दुष्टः शब्दः ।

दुष्टः शब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह ।

सः वाग्वज्रः यजमानम् हिनस्ति यथा इन्द्रशत्रुः स्वरतः अपराधात् ।

दुष्टान् शब्दान् मा प्रयुक्ष्महि इति अध्येयम् व्याकरणम् ।

दुष्टः शब्दः ।

यत् अधीतम् ।

यत् अधीतम् अविज्ञातम् निगदेन एव शब्द्यते अनग्नौ इव शुष्कैधः न तत् ज्वलति कर्हि चित् ।

तस्मात् अनर्थकम् मा अधिगीष्महि इति अध्येयम् व्याकरणम्. यत् अधीतम् ।

यः तु प्रयुङ्क्ते ।

यः तु प्रयुङ्क्ते कुशलः विशेषे शब्दान् यथावत् व्यवहारकाले सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः ।

कः ।

वाग्योगवित् एव ।

कुतः एतत् ।

यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति ।

यथा एव हि शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः ।

अथ वा भूयान् अधर्मः प्राप्नोति ।

भूयांसः अपशब्दाः अल्पीयांसः शब्दाः ।

एकैकस्य हि शब्दस्य बहवः अपशब्दाः ।

तत् यथा गौः इति अस्य शब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः ।

अथ यः अवाग्योगवित् ।

अज्ञानम् तस्य शरणम् ।

न अत्यन्ताय अज्ञानम् शरणम् भवितुम् अर्हति ।

यः हि अजानन् वै ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात्. एवम् तर्हि सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः ।

कः. अवाग्योगवित् एव ।

अथ यः वाग्योगवित् ।

विज्ञानम् तस्य शरणम् ।

क्व पुनः इदम् पठितम् ।

भ्राजाः नाम श्लोकाः ।

किम् च भोः श्लोकाः अपि प्रमाणम् ।

किम् च अतः ।

यदि प्रमाणम् अयम् अपि श्लोकः प्रमाणम् भवितुम् अर्हति ।

यत् उदुम्बरवर्णानाम् घटीनाम् मण्डलम् महत् पीतम् न स्वर्गम् गमयेत् किम् तत् क्रतुगतम् नयेत् इति ।

प्रमत्तगीतः एषः तत्रभवतः ।

यः तु अप्रमत्तगीतः तत् प्रमानम् ।

यस् तु प्रयुङ्क्ते ।

अविद्वांसः ।

अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिम् न विदुः कामम् तेषु तु विप्रोष्य स्त्रीषु इव अयम् अहम् वदेत् ।

अभिवादे स्त्रीवत् मा भूम इति अध्येयम् व्याकरणम् ।

अविद्वांसः

विभक्तिम् कुर्वन्ति ।

याज्ञिकाः पठन्ति ॒ प्रयाजाः सविभक्तिकाः कार्याः इति ।

न च अन्तरेण व्याकरणम् प्रयाजाः सविभक्तिकाः शक्याः कर्तुम्. विभक्तिम् कुर्वन्ति

यः वै इमाम् ।

यः वै इमाम् पदशः स्वरशः अक्षरशः वाचम् विदधाति सः आर्त्विजीनः ।

आर्त्विजीनाः स्याम इति अध्येयम् व्याकरणम् ।

यः वै इमाम् ।

चत्वारि ।

चत्वरि शृङ्गा त्रयः अस्य पदा द्वे शीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान् अ विवेश ।

चत्वारि शृङ्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च ।

त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः ।

द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यः च ।

सप्त हस्तासः अस्य सप्त विभक्तयः ।

त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसि इति ।

वृषभः वर्षणात् ।

रोरवीति शब्दम् करोति ।

कुतः एतत् ।

रौतिः शब्दकर्मा ।

महः देवः मर्त्यान् आविवेश इति ।

महान् देवः शब्दः ।

मर्त्याः मरणधर्माणः मनुष्याः ।

तान् आविवेश ।

महता देवेन नः साम्यम् यथा स्यात् इति अध्येयम् व्याकरणम् ।

अपरः आह ॒ चत्वरि वक् परिमिता पदनि तनि विदुः ब्राह्मण ये मनीषिणः गुहा त्रीणि निहिता न इङ्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति ।
चत्वारि वाक् परिमिता पदानि ।

चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च ।

तानि विदुः ब्राह्मणाः ये मनीषिणः ।

मनसः ईषिणः मनीषिणः ।

गुहा त्रीणि निहिता न इङ्गयन्ति ।

गुहायाम् त्रीणि निहितानि न इङ्गयन्ति ।

न चेष्टन्ते ।

न निमिषन्ति इति अर्थः ।

तुरीयम् वाचः मनुष्याः वदन्ति ।

तुरीयम् ह वै एतत् वाचः यत् मनुष्येषु वर्तते ।

चतुर्थम् इति अर्थः ।

चत्वारि ।

उत त्वः ।

उत त्वः पश्यन् न ददर्श वचम् उत त्वः श्र्ण्वन् न शृणोति एनाम् उतो त्वस्मै तन्वम् विसस्रे जाय इव पत्ये उशती सुवसाः ।

अपि खलु एकः पश्यन् अपि न पश्यति वाचम् ।

अपि खलु एकः श्र्ण्वन् अपि न श्र्णोति एनाम् ।

अविद्वांसम् आह अर्धम् ।

उतो त्वस्मै तन्वम् विसस्रे ।

तनुम् विवृणुते ।

जाया इव पत्ये उशती सुवासाः ।

तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानम् विवृणुते एवम् वाक् वाग्विदे स्वात्मानम् विवृणुते ।

वाक् नः विवृणुयात् आत्मानम् इति अध्येयम् व्याकरणम् ।

उत त्वः ।

सक्तुम् इव ।

सक्तुम् इव तितौना पुनन्तः यत्र धीराः मनसा वचम् अक्रत अत्रा सखायः सख्यनि जानते भद्र एषाम् लक्ष्मीः निहिता अधि वाचि ।

सक्तुः सचतेः दुर्धावः भवति ।

कसतेः वा विपरीतात् विकसितो भवति ।

तितौ परिपवनम् भवति ततवत् वा तुन्नवत् वा ।

धीराः ध्यानवन्तः मनसा प्रज्ञानेन वाचम् अक्रत वाचम् अकृषत ।

अत्रा सखायः सख्यानि जानते ।

सायुज्यानि जानते ।

क्व ।

यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः ।

के पुनः ते ।

वैयाकरणाः ।

कुतः एतत् ।

भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि ।

एषाम् वाचि भद्रा लक्ष्मीः निहिता भवति ।

लक्ष्मीः लक्षणात् भासनात् परिवृढा भवति ।

सक्तुम् इव ।

सारस्वतीम्. याज्ञिकाः पठन्ति ॒ आहिताग्निः अपशब्दम् प्रयुज्य प्रायश्चित्तीयाम् सारस्वतीम् इष्टिम् निर्वपेत् इति ।

प्रायश्चित्तीयाः मा भूम इति अध्येयम् व्याकरणम् ।

सारस्वतीम् ।

दशम्याम् पुत्रस्य ।

याज्ञिकाः पठन्ति ॒ दशम्युत्तरकालम् पुत्रस्य जातस्य नाम विदध्यात् घोषवदादि अन्तरन्तःस्थम् अवृद्धम् त्रिपुरुषानूकम् अनरिप्रतिष्ठितम् ।

तत् हि प्रतिष्ठिततमम् भवति ।

द्व्यक्षरम् चतुरक्षरम् वा नाम कृतम् कुर्यात् न तद्धितम् इति ।

न च अन्तरेण व्याकरणम् कृतः तद्धिताः वा शक्याः विज्ञातुम् ।

दशम्याम् पुत्रस्य ।

सुदेवः असि ।

सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिरम् इव ।

सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः ।

अनुक्षरन्ति काकुदम् ।

काकुदम् तालु ।

काकुः जिह्वा सा अस्मिन् उद्यते इति काकुदम् ।

सूर्म्यम् सुषिराम् इव ।

तद् यथा शोभनाम् ऊर्मीम् सुषिराम् अग्निः अन्तः प्रविश्य दहति एवम् तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति ।

तेन असि सत्यदेवः ।
सत्यदेवाः स्याम इति अध्येयम् व्याकरणम् ।

सुदेवः असि ।

किम् पुनः इदम् व्याकरनम् एव अधिजिगांसमानेभ्यः प्रयोजनम् अन्वाख्यायते न पुनः अन्यत् अपि किम् चित् ।

ओम् इति उक्त्वा वृत्तान्तशः शम् इति एवमादीन् शब्दान् पठन्ति ।

पुराकल्पे एतत् आसीत् ॒ संस्कारोत्तरकालम् ब्राह्मणाः व्याकरणम् स्म अधीयते ।

तेभ्यः तत्र स्थानकरणानुप्रदानज्ञेभ्यः वैदिकाः शब्दाः उपदिश्यन्ते ।

तत् अद्यत्वे न तथा ।

वेदम् अधीत्य त्वरिताः वक्तारः भवन्ति ॒ वेदात् नः वैदिकाः शब्दाः सिद्धाः लोकात् च लौकिकाः ।

अनर्थकम् व्याकरणम् इति ।
तेभ्यः विप्रतिपन्नबुद्धिभ्यः अध्येतृभ्यः आचार्यः इदम् शास्त्रम् अन्वाचष्टे ॒ इमानि प्रयोजनानि अध्येयम् व्याकरणम् इति ।

उक्तः शब्दः ।

स्वरूपम् अपि उक्तम् ।

प्रयोजनानि अपि उक्तानि ।

शब्दानुशासनम् इदानीम् कर्तव्यम् ।

तत् कथम् कर्तव्यम् ।

किम् शब्दोपदेशः कर्तव्यः आहोस्वित् अपशब्दोपदेशः आहोस्वित् उभयोपदेशः इति ।

अन्यतरोपदेशेन कृतम् स्यात् ।

तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते ।

पञ्च पञ्चनखाः भक्ष्याः इति उक्ते गम्यते एतत् ॒ अतः अन्ये अभक्ष्याः इति ।
अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः ।

तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते गम्यते एतत् ॒ आरण्यः भक्ष्यः इति ।

एवम् इह अपि ॒ यदि तावत् शब्दोपदेशः क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् ॒ गाव्यादयः अपशब्दाः इति ।

अथ अपशब्दोपदेशः क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् ॒ गौः इति एषः शब्दः इति ।

किम् पुनः अत्र ज्यायः ।

लघुत्वात् शब्दोपदेशः ।

लघीयान् शब्दोपदेशः गरीयान् अपशब्दोपदेशः ।

एकैकस्य शब्दस्य बहवः अपभ्रंशाः ।

तत् यथा ।

गौः इति अस्य शब्दस्य गावीगोणीगोतागोपोतलिकादयः अपभ्रंशाः ।

इष्टान्वाख्यानम् खलु अपि भवति ।

अथ एतस्मिन् शब्दोपदेशे सति किम् शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः ॒ गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति एवमादयः शब्दाः पठितव्याः ।

न इति आह ।

अनभ्युपायः एषः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः ।

एवम् हि श्रूयते ॒ बृहस्पतिः इन्द्राय दिव्यम् वर्षसहस्रम् प्रतिपदोक्तानाम् शब्दानाम् शब्दपारायणम् प्रोवाच न अन्तम् जगाम ।

बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यम् वर्षसहस्रम् अध्ययनकालः न च अन्तम् जगाम ।

किम् पुनः अद्यत्वे ।

यः सर्वथा चिरम् जीवति सः वर्षशतम् जीवति ।

चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति ।

तत्र च आगमकालेन एव आयुः पर्युपयुक्तम् स्यात् ।

तस्मात् अनभ्युपायः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः ।

कथम् तर्हि इमे शब्दाः प्रतिपत्तव्याः ।

किम् चित् सामन्यविशेषवत् लक्षणम् प्रवर्त्यम् येन अल्पेन यत्नेन महतः महतः शब्दौघान् प्रतिपद्येरन् ।

किम् पुनः तत् ।

उत्सर्गापवादौ ।

कः चित् उत्सर्गः कर्तव्यः कः चित् अपवादः ।

कथञ्जातीयकः पुनः उत्सर्गः कर्तव्यः कथञ्जातीयकः अपवादः ।

सामन्येन उत्सर्गः कर्तव्यः ।

तत् यथा कर्मणि अण् ।

तस्य विशेषेण अपवादः ।

तत् यथा ।

आतः अनुपसर्गे कः ।

किम् पुनः आकृतिः पदार्थः आहोस्वित् द्रव्यम् ।

उभयम् इति आह ।

कथम् ज्ञायते ।

उभयथा हि आचार्येण सूत्राणि पठितानि ।

आकृतिम् पदार्थम् मत्वा जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति उच्यते ।

द्रव्यम् पदार्थम् मत्वा सरूपाणाम् एकशेषः एकविभक्तौ इति एकशेषः आरभ्यते ।

किम् पुनः नित्यः शब्दः आहोस्वित् कार्यः ।

सङ्ग्रहे एतत् प्राधान्येन परीक्षितम् नित्यः वा स्यात् कार्यः वा इति ।

तत्र उक्ताः दोषाः प्रयोजनानि अपि उक्तानि ।

तत्र तु एषः निर्णयः यदि एव नित्यः अथ अपि कार्यः उभयथा अपि लक्षणम् प्रवर्त्यम् इति ।

कथम् पुनः इदम् भगवतः पाणिनेः आचार्यस्य लक्षणम् प्रवृत्तम् ।

सिद्धे शब्दार्थसम्बन्धे ।

सिद्धे शब्दे अर्थे सम्बन्धे च इति ।

अथ सिद्धशब्दस्य कः पदार्थः ।

नित्यपर्यायवाची सिद्धशब्दः ।

कथम् ज्ञायते ।

यत् कूटस्थेषु अविचालिषु भावेषु वर्तते ।

तत् यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धम् आकाशम् इति ।

ननु च भोः कार्येषु अपि वर्तते ।

तत् यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति ।

यावता कार्येषु अपि वर्तते तत्र कुतः एतत् नित्यपर्यायवाचिनः ग्रहणम् न पुनः कार्ये यः सिद्धशब्दः इति ।

सङ्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावात् मन्यामहे नित्यपर्यायवाचिनः ग्रहणम् इति ।

इह अपि तत् एव ।

अथ वा सन्ति एकपदानि अपि अवधारणानि ।

तत् यथा ॒ अब्भक्षः वायुभक्षः इति ।

अपः एव भक्षयति वायुम् एव भक्षयति इति गम्यते ।

एवम् इह अपि सिद्धः एव न साध्यः इति ।

अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः ॒ अत्यन्तसिद्धः सिद्धः इति ।

तत् यथा देवदत्तः दत्तः , सत्यभामा भामा इति ।

अथ वा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति नित्यपर्यायवाचिनः ग्रहणम् इति व्याख्यास्यामः ।

किम् पुनः अनेन वर्ण्येन ।

किम् न महता कण्ठेन नित्यशब्दः एव उपात्तः यस्मिन् उपादीयमाने असन्देहः स्यात् ।

मङ्गलार्थम् ।

माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् सिद्धशब्दम् आदितः प्रयुङ्क्ते ।

मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च ।

अध्येतारः च सिद्धार्थाः यथा स्युः इति ।

अयम् खलु अपि नित्यशब्दः न अवश्यम् कूटस्थेषु अविचालिषु भावेषु वर्तते ।

किम् तर्हि ।

आभीक्ष्ण्ये अपि वर्तते ।

तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति ।

यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात् व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

पश्यति तु आचार्यः मङ्गलार्थः च एव सिद्धशब्दः आदितः प्रयुक्तः भविष्यति शक्ष्यामि च एनम् नित्यपर्यायवाचिनम् वर्णयितुम् इति ।

अतः सिद्धशब्दः एव उपात्तः न नित्यशब्दः

अथ कम् पुनः पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति ।

आकृतिम् इति आह ।

कुतः एतत् ।

आकृतिः हि नित्या ।

द्रव्यम् अनित्यम् ।

अथ द्रव्ये पदार्थे कथम् विग्रहः कर्तव्यः ।

सिद्धे शब्दे अर्थसम्बन्धे च इति ।

नित्यः हि अर्थवताम् अर्थैः अभिसम्बन्धः ।

अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति. द्रव्यम् हि नित्यम् आकृतिः अनित्या ।

कथम् ज्ञायते ।

एवम् हि दृश्यते लोके ।

मृत् कया चित् आकृत्या युक्ता पिण्डः भवति ।

पिण्डाकृतिम् उपमृद्य घटिकाः किर्यन्ते ।

घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते ।

तथा सुवर्णम् कया चित् आकृत्या युक्तम् पिण्डः भवति ।

पिण्डाकृतिम् उपमृद्य रुचकाः क्रियन्ते ।

रुचकाकृतिम् उपमृद्य कटकाः क्रियन्ते ।

कटकाकृतिम् उप्मृद्य स्वस्तिकाः क्रियन्ते ।

पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः ।

आकृतिः अन्या च अन्या च भवति द्रव्यम् पुनः तद् एव ।

आकृत्युपमर्देन द्रव्यम् एव अवशिष्यते ।

आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति ।

ननु च उक्तम् आकृतिः अनित्या इति ।

न एतत् अस्ति ।

नित्या आकृतिः ।

कथम् ।

न क्व चित् उपरता इति कृत्वा सर्वत्र उपरता भवति ।

द्रव्यान्तरस्था तु उपलभ्यते ।

अथ वा न इदम् एव नित्यलक्षणम् ध्रुवम् कूटस्थम् अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन् नित्यम् इति ।
तत् अपि नित्यम् यस्मिन् तत्त्वम् न विहन्यते ।

किम् पुनः तत्त्वम् ।

तद्भावः तत्त्वम् ।

आकृतौ अपि तत्त्वम् न विहन्यते ।

अथ वा किम् नः एतेन इदम् नित्यम् इदम् अनित्यम् इति ।

यत् नित्यम् तम् पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति ।

कथम् पुनः ज्ञायते सिद्धः शब्दः अर्थः सम्बन्धः च इति ।

लोकतः ।

यत् लोके अर्थम् उपादाय शब्दान् प्रयुञ्जते ।

न एषाम् निर्वृत्तौ यत्नम् कुर्वन्ति ।

ये पुनः कार्याः भावाः निर्वृत्तौ तावत् तेषाम् यत्नः क्रियते ।

तत् यथा ।

घटेन कार्यम् करिष्यन् कुम्भकारकुलम् गत्वा आह कुरु घटम् ।

कार्यम् अनेन करिष्यामि इति ।

न तद्वत् शब्दान् प्रयोक्ष्यमाणः वैयाकरणकुलम् गत्वा आह ।

कुरु शब्दान् ।

प्रयोक्ष्ये इति ।

तावति एव अर्थम् उपादाय शब्दान् प्रयुञ्जते ।

यदि तर्हि लोकः एषु प्रमाणम् किम् शास्त्रेण क्रियते ।

लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ।

लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते ।

किम् इदम् धर्मनियमः इति ।

धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः ।

यथा लौकिकवैदिकेषु ।

प्रियतद्धिताः दाक्षिणात्याः ।

यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति प्रयुञ्जते ।

अथ वा युक्तः एव तद्धितार्थः ।

यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

लोके तावत् अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उच्यते ।

भक्ष्यम् च नाम क्षुत्प्रतीघातार्थम् उपादीयते ।

शक्यम् च अनेन श्वमांसादिभिः अपि क्षुत् प्रतिहन्तुम् ।

तत्र नियमः क्रियते ।

इदम् भक्ष्यम् ।

इदम् अभक्ष्यम् इति ।

तथा खेदात् स्त्रीषु प्रवृत्तिः भवति ।

समानः च खेदविगमः गम्यायाम् च अगम्यायाम् च ।

तत्र नियमः क्रियते ॒ इयम् गम्या इयम् अगम्या इति ।

वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः वैश्यः इति उच्यते ।

व्रतम् च नाम अभ्यवहारार्थम् उपादीयते ।

शक्यम् च अनेन शालिमांसादीनि अपि व्रतयितुम् ।

तत्र नियमः क्रियते ।

तथा बैल्वः खादिरः वा यूपः स्यात् इति उच्यते ।

यूपः च नाम पश्वनुबन्धार्थम् उपादीयते ।

शक्यम् च अनेन किम् चित् एव काष्ठम् उच्छ्रित्य अनुच्छ्रित्य वा पशुः अनुबन्द्धुम् ।

तत्र नियमः क्रियते ।

तथा अग्नौ कपालानि अधिश्रित्य अभिमन्त्रयते ।

भृगूणाम् अङ्गिरसाम् घर्मस्य तपसा तप्यध्वम् इति ।

अन्तरेण अपि मन्त्रम् अग्निः दहनकर्मा कपालानि सन्तापयति ।

तत्र नियमः क्रियते ।

एवम् क्रियमाणम् अभ्युदयकारि भवति इति ।

एवम् इह अपि समानायाम् अर्थगतौ शब्देन च अपशब्देन च धर्मनियमः क्रियते ।

शब्देन एव अर्थः अभिधेयः न अपशब्देन इति ।

एवम् क्रियमाणम् अभ्युदयकारि भवति इति ।

अस्ति अप्रयुक्तः ।

सन्ति वै शब्दाः अप्रयुक्ताः ।

तत् यथा ऊष तेर चक्र पेच इति ।

किम् अतः यत् सन्ति अप्रयुक्ताः ।

प्रयोगात् हि भवान् शब्दानाम् साधुत्वम् अध्यवस्यति ।

ये इदानीम् अप्रयुक्ताः न अमी साधवः स्युः ।

इदम् विप्रतिषिद्धम् यत् उच्यते सन्ति वै शब्दाः अप्रयुक्ताः इति ।

यदि सन्ति न अप्रयुक्ताः ।

अथ अप्रयुक्ताः न सन्ति ।

सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धम् ।

प्रयुञ्जानः एव खलु भवान् आह सन्ति शब्दाः अप्रयुक्ताः इति ।

कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् ।

न एतत् विप्रतिषिद्धम् ।

सन्ति इति तावत् ब्रूमः यत् एतान् शास्त्रविदः शास्त्रेण अनुविदधते ।

अप्रयुक्ताः इति ब्रूमः यत् लोके अप्रयुक्ताः इति ।

यत् अपि उच्यते कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् इति ।

न ब्रूमः अस्माभिः अप्रयुक्ताः इति ।

किम् तर्हि ।

लोके अप्रयुक्ताः इति ।

ननु च भवान् अपि अभ्यन्तरः लोके ।

अभ्यन्तरः अहम् लोके न तु अहम् लोकः ।

अस्ति अप्रयुक्तः इति चेत् न अर्थे शब्दप्रयोगात् ।

अस्ति अप्रयुक्तः इति चेत् तत् न ।

किम् कारणम् ।

अर्थे शब्दप्रयोगात् ।

अर्थे शब्दाः प्रयुज्यन्ते ।

सन्ति च एषाम् शब्दानाम् अर्थाः येषु अर्थेषु प्रयुज्यन्ते ।

अप्रयोगः प्रयोगान्यत्वात् ।

अप्रयोगः खलु एषां शब्दानाम् न्याय्यः ।

कुतः ।

प्रयोगान्यत्वात् ।

यत् एतेषाम् शब्दानाम् अर्थे अन्यान् शब्दान् प्रयुञ्जते ।

तत् यथा ।

ऊष इति एतस्य शब्दस्य अर्थे क्व यूयम् उषिताः ।

तेर इति अस्य अर्थे किम् यूयम् तीर्णाः ।

चक्र इति अस्य अर्थे किम् यूयम् कृतवन्तः ।

पेच इति अस्य अर्थे किम् यूयम् पक्ववन्तः इति ।

अप्रयुक्ते दीर्घसत्त्रवत् ।

यदि अपि अप्रयुक्ताः अवश्यम् दीर्घसत्त्रवत् लक्षणेन अनुविधेयाः ।

तत् यथा ।

दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च ।

न च अद्यत्वे कः चित् अपि व्यवहरति ।

केवलम् ऋषिसम्प्रदायः धर्मः इति कृत्वा याज्ञिकाः शास्त्रेण अनुविदधते ।

सर्वे देशान्तरे ।

सर्वे खलु अपि एते शब्दाः देशान्तरे प्रयुज्यन्ते ।

न च एते उपलभ्यन्ते ।

उपलब्धौ यत्नः क्रियताम् ।

महान् हि शब्दस्य प्रयोगविषयः ।

सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् शब्दस्य प्रयोगविषयः ।
एतावन्तम् शब्दस्य प्रयोगविषयम् अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम् ।

एतस्मिन् अतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः दृश्यन्ते ।

तत् यथा ।

शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति ।

विकारे एनम् आर्याः भाषन्ते शवः इति ।

हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः प्रयुञ्जते ।

दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु ।

ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषाम् अपि प्रयोगः दृश्यते ।

क्व ।

वेदे ।

यत् वः रेवतीः रेवत्यम् तत् ऊष ।

यत् मे नरः श्रुत्यम् ब्रह्म चक्र ।

यत्र नः चक्र जरसम् तनुनाम् इति ।

किम् पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे ।

कः च अत्र विशेषः ।

ज्ञाने धर्मः इति चेत् तथा अधर्मः ।

ज्ञाने धर्मः इति चेत् तथा अधर्मः प्राप्नोति ।

यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति ।

यथा एव शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः ।

अथ वा भूयान् अधर्मः प्राप्नोति ।भूयांसः अपशब्दाः अल्पीयांसः शब्दाः ।

एकैकस्य शब्दस्य बहवः अपभ्रंशाः ।

तत् यथा ।

गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः ।

आचारे नियमः ।

आचारे पुनः ऋषिः नियमम् वेदयते ।

ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति ।

अस्तु तर्हि प्रयोगे ।

प्रयोगे सर्वलोकस्य ।

यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत ।

कः च इदानीम् भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत ।

न खलु कः चित् मत्सरः ।

प्रयत्नानर्थक्यम् तु भवति ।

फलवता च नाम प्रयत्नेन भवितव्यम् न च प्रयत्नः फलात् व्यतिरेच्यः ।

ननु च ये कृतप्रयत्नाः ते साधीयः शब्दान् प्रयोक्ष्यन्ते ।

ते एव साधीयः अभ्युदयेन योक्ष्यन्ते ।

व्यतिरेकः अपि वै लक्ष्यते ।

दृश्यन्ते हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः ।

तत्र फलव्यतिरेकः अपि स्यात् ।

एवम् तर्हि न अपि ज्ञाने एव धर्मः न अपि प्रयोगे एव ।

किम् तर्हि शास्त्रपूर्वके प्रयोगे अभ्युदयः तत् तुल्यम् वेदशब्देन ।

शास्त्रपूर्वकम् यः शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते ।

तत् तुल्यम् वेदशब्देन ।

वेदशब्दाः अपि एवम् अभिवदन्ति ।

यः अग्निष्टोमेन यजते यः उ च एनम् एवम् वेद ।

यः अग्निम् नाचिकेतम् चिनुते यः उ च एनम् एवम् वेद ।

अपरः आह ॒ तत् तुल्यम् वेदशब्देन इति ।

यथा वेदशब्दाः नियमपूर्वम् अधीताः फलवन्तः भवन्ति एवम् यः शास्त्रपूर्वकम् शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते इति ।

अथ वा पुनः अस्तु ज्ञाने एव धर्मः इति ।

ननु च उक्तम् ज्ञाने धर्मः इति चेत् तथा अधर्मः इति ।

न एषः दोषः ।

शब्दप्रमाणकाः वयम् ।

यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।

शब्दः च शब्दज्ञाने धर्मम् आह न अपशब्दज्ञाने अधर्मम् ।

यत् च पुनः अशिष्टाप्रतिषिद्धम् न एव तत् दोषाय भवति न अभ्युदयाय ।

तत् यथा ।

हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय ।

अथ वा अभ्युपायः एव अपशब्दज्ञानम् शब्दज्ञाने ।

यः अपशब्दान् जानाति शब्दान् अपि असौ जानाति ।

तत् एवम् ज्ञाने धर्मः इति ब्रुवतः अर्थात् आपन्नम् भवति अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः इति ।

अथ वा कूपखानकवत् एतत् भवति ।

तत् यथा कूपखानकः खनन् यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु सञ्जातासु ततः एव तम् गुणम् आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवम् इह अपि यदि अपि अपशब्दज्ञाने अधर्मः तथा अपि यः तु असौ शब्दज्ञाने धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति ।

यत् अपि उच्यते आचारे नियमः इति याज्ञे कर्मणि सः नियमः ।
एवम् हि श्रूयते ।

यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः परापरज्ञाः विदितवेदितव्याः अधिगतयाथातथ्याः ।

ते तत्रभवन्तः यत् वा नः तत् वा नः इति प्रोयोक्तव्ये यर् वा णः तर् वा णः इति प्रयुञ्जते याज्ञे पुनः कर्मणि न अपभाषन्ते ।

तैः पुनः असुरैः याज्ञे कर्मणि अपभाषितम् ।

ततः ते पराबभूताः ।

अथ व्याकरणम् इति अस्य शब्दस्य कः पदार्थः ।

सूत्रम् ।

सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः ।

सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रम् इति ।

किम् हि तत् अन्यत् सूत्रात् व्याकरणम् यस्य अदः सूत्रम् स्यात् ।

शब्दाप्रतिपत्तिः ।
शब्दानाम् च अप्रतिपत्तिः प्राप्नोति व्याकरणात् शब्दान् प्रतिपद्यामहे इति ।

न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते ।

किम् तर्हि ।

व्याख्यानतः च ।

ननु च तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति ।

न केवलानि चर्चापदानि व्याख्यनम् वृद्धिः आत् ऐच् इति ।

किम् तर्हि ।

उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति ।

एवम् तर्हि शब्दः ।

शब्दे ल्युडर्थः ।

यदि शब्दः व्याकरणम् ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणम् ।

न हि शब्देन किम् चित् व्याक्रियते ।

केन तर्हि ।

सूत्रेण ।

भवे ।

भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति ।

न हि शब्दे भवः योगः ।

क्व तर्हि ।

सूत्रे ।

प्रोक्तादयः च तद्धिताः ।

प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तम् पाणिनीयम् , आपिशलम् , काशकृत्स्नम् इति ।

न हि पाणिनिना शब्दाः प्रोक्ताः ।

किम् तर्हि ।

सूत्रम् ।

किमर्थम् इदम् उभयम् उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात् ।

पुरस्तात् इदम् आचार्येण दृष्टम् भवे तद्धितः इति तत् पठितम् ।

ततः उत्तरकालम् इदम् दृष्टम् प्रोक्तादयः च तद्धिताः इति तत् अपि पठितम् ।

न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।

अयम् तावत् अदोषः यत् उच्यते शब्दे ल्युडर्थः इति ।

न अवश्यम् करणाधिकरणयोः एव ल्युट् विधीयते किम् तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलम् इति ।

तत् यथा प्रस्कन्दनम् प्रपतनम् इति ।

अथ वा शब्दैः अपि शब्दाः व्याक्रियन्ते ।

तत् यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न अश्वः न गर्दभः इति ।

अयम् तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति ।

एवम् तर्हि लक्ष्यलक्षणे व्याकरणम् ।

लक्ष्यम् च लक्षणम् च एतत् समुदितम् व्याकरणम् भवति ।

किम् पुनः लक्ष्यम् लक्षणम् च ।

शब्दः लक्ष्यम् सूत्रम् लक्षणम् ।

एवम् अपि अयम् दोषः समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे न उपपद्यते ।

सूत्राणि च अधीयानः इष्यते वैयाकरणः इति ।

न एषः दोषः ।

समुदायेषु हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते ।

तत् यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति ।

एवम् अयम् समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे अपि वर्तते ।

अथ वा पुनः अस्तु सूत्रम् ।

ननु च उक्तम् सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति ।

न एष दोषः ।

व्यपदेशिवद्भावेन भविष्यति ।

यत् अपि उच्यते शब्दाप्रतिपत्तिः इति न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते किम् तर्हि व्याख्यानतः च इति परिहृतम् एतत् तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति इति ।

ननु च उक्तम् न केवलानि चर्चापदानि व्याख्यानम् वृद्धिः आत् ऐच् इति किम् तर्हि उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति इति ।

अविजानतः एतत् एवम् भवति ।

सूत्रतः एव हि शब्दान् प्रतिपद्यन्ते ।

आतः च सूत्रतः एव यः हि उत्सूत्रम् कथयेत् न अदः गृह्येत ।

अथ किमर्थः वर्णानाम् उपदेशः ।

वृत्तिसमवायार्थः उपदेशः । वृत्तिसमवायार्थः वर्णानाम् उपदेशः कर्तव्यः ।

किम् इदम् वृत्तिसमवयार्थः इति ।

वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः ।

का पुनः वृत्तिः ।

शास्त्रप्रवृत्तिः ।

अथ कः समवयः ।

वर्णानाम् आनुपूर्व्येण सन्निवेशः ।

अथ कः उपदेशः ।

उच्चारणम् ।

कुतः एतत् ।

दिशिः उच्चारणक्रियः ।

उच्चार्य हि वर्णान् आह ॒ उपदिष्टाः इमे वर्णाः इति ।

अनुबन्धकरणार्थः च । अनुबन्धकरणार्थः च वर्णानाम् उपदेशः कर्तव्यः ।

अनुबन्धान् आसङ्क्ष्यामि इति ।

न हि अनुपदिश्य वर्णान् अनुबन्धाः शक्याः आसङ्क्तुम् ।

सः एषः वर्णानाम् उपदेशः वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च ।

वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् ।

प्रत्याहारः वृत्त्यर्थः ।

इष्टबुद्ध्यर्थः च ।

इष्टबुद्ध्यर्थः च वर्णानाम् उपदेशः ।

इष्टान् वर्णान् भोत्स्ये इति ।

इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः । इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः कर्तव्यः ।

एवङ्गुणाः अपि हि वर्णाः इष्यन्ते ।

आकृत्युपदेशात् सिद्धम् ।

आकृत्युपदेशात् सिद्धम् एतत् ।

अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति ।

तथा इवर्णकुलाकृतिः ।

तथा उवर्णकुलाकृतिः ।

आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः ।

आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः ।

के पुनः संवृतादयः ।

संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः रोमशः इति ।

अपरः आह ॒ ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति ।

अतः अन्ये व्यञ्जनदोषाः ।

न एषः दोषः ।

गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति ।

अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् ।

किम् ।

समुदायानाम् साधुत्वम् यथा स्यात् इति ।

एवम् तर्हि अष्टादशधा भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि ।

सा तर्हि वक्तव्या ।

लिङ्गार्था तु प्रत्यापत्तिः ।

लिङ्गार्थ सा तर्हि भविष्यति ।

तत् तर्हि वक्तव्यम् ।

यदि अपि एतत् उच्यते अथ वा एतर्हि अनुबन्धशतम् न उच्चार्यम् इत्सञ्ज्ञा च न वक्तव्या लोपः च न वक्तव्यः ।

यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति ।

सिध्यति एवम् अपाणिनीयम् तु भवति ।

यथान्यासम् एव अस्तु ।

ननु च उक्तम् आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति ।परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति ।

ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् ।

किम् ।

समुदायानाम् साधुत्वम् यथा स्यात् इति ।

एवम् तर्हि उभयम् अनेन क्रियते ।

पाठः च एव विशेष्यते कलादयः च निवर्त्यन्ते ।

कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

लभ्यम् इति आह ।

कथम् ।

द्विगताः अपि हेतवः भवन्ति ।

तत् यथा ॒ आम्राः च सिक्ताः पितरः च प्रीणिताः इति ।

तथा वाक्यानि अपि ड्विष्ठानि भवन्ति ।

श्वेतः धावति , अलम्बुसानाम् याता इति ।

अथ वा इदम् तावत् अयम् प्रष्टव्यः ।

क्वे इमे संवृतादयः श्रूयेरन् इति ।

आगमेषु ।

आगमाः शुद्धाः पठ्यन्ते ।

विकारेषु तर्हि ।

विकाराः शुद्धाः पठ्यन्ते ।

प्रत्ययेषु तर्हि ।

प्रत्ययाः शुद्धाः पठ्यन्ते ।

धातुषु तर्हि ।

धातवः अपि शुद्धाः पठ्यन्ते ।

प्रातिपदिकेषु तर्हि ।

प्रातिपदिकानि अपि शुद्धानि पठ्यन्ते ।

यानि तर्हि अग्रहणानि प्रातिपदिकानि ।

एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः ।

शशः षषः इति मा भूत् ।

पलाशः पलाषः इति मा भूत् ।

मञ्चकः मञ्जकः इति मा भूत् ।

आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः ।

No comments: